|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.95. अध्यायः 095
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
वैशम्पायनेन जनमेजयंप्रति नकुलस्य निजस्वरूपकथनपूर्वकं तस्य नकुलत्वप्राप्तिविमोक्षकारणाभिधानम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
नमेजय उवाच।
कोसौ नकुलरूपेण शिरसा काञ्चनेन वै।
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे॥ 14-95-1(95261)
वैशम्पायन उवाच। 14-95-2x(7933)
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम्।
श्रूयतां नकुलो योसौ यथा वाक्तस्य मानुषी॥ 14-95-2(95262)
श्राद्धं संकल्पयामास जमदग्निः पुरा किल।
होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम्॥ 14-95-3(95263)
तत्पयः स्थपयामास नवे भाण्डे दृढे शुचौ।
क्रोधो नकुलरूपेण पिठरं पर्यकर्षयत्॥ 14-95-4(95264)
जिज्ञासुस्तमृषिश्रेष्टं किं कुर्याद्विप्रिये कृते।
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः॥ 14-95-5(95265)
तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह।
स तु क्रोधस्ततो राजन्ब्राह्मणीं मूर्तिमास्थितः॥ 14-95-6(95266)
जितोस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः।
लोके मिथ्याप्रवादोयं यत्त्वयाऽस्मि विनिर्जितः॥ 14-95-7(95267)
वशे स्थितोऽहं त्वय्यह्य क्षमावति महात्मनि।
बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो॥ 14-95-8(95268)
जमदग्निरुवाच। 14-95-9x(7934)
साक्षाद्दृष्टोसि मे क्रध गच्छ त्वं विगतज्वरः।
न त्वयापकृतं मेऽद्य न च मे मन्युरस्ति वै॥ 14-95-9(95269)
यान्समुद्दिश्य संकल्पः पयसोस्य कृतो मया।
पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम्॥ 14-95-10(95270)
इत्युक्तो जातसंत्रासस्तत्रैवान्तरधीयत।
पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः॥ 14-95-11(95271)
स तान्प्रसादयामास शापस्यान्तो भवेदिति।
तैश्चाप्युक्तः क्षिपन्धर्मं सापस्यान्तमवाप्स्यति॥ 14-95-12(95272)
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यं तथैव च।
जुगुप्समानो धावन्स तं यज्ञं समुपासदत्॥ 14-95-13(95273)
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः।
मुक्तः सापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः॥ 14-95-14(95274)
एवमेतत्तदा वृत्तं यज्ञे तस्य महात्मनः।
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा। ॥ 14-95-15(95275)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चनवतितमोऽध्यायः॥ 95 ॥ समाप्तमनुगीतापर्व। -------
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-95-4 पिठरं पात्रं। तत्पयः पीतवानित्यर्थः। तच्च क्रोधस्वरूपेण पिठरं धर्म आविशदिति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|